||Sundarakanda ||

|| Sarga 20||( Only Slokas in Devanagari) )

Sanskrit Sloka text in Devanagari, Gujarati, Kannada, Telugu , and English

||om tat sat||

सुन्दरकाण्ड्.
अथ विंशस्सर्गः

श्लो॥ स तां परिवृताम् दीनां निरानन्दां तपस्स्विनीम्।
साकारैर्मथुरैर्वाक्यैः न्यदर्शयत रावणः॥1||

स॥ तां परिवृतां दीनां निरानंदां तपस्स्विनीं साकारैः मधुरैः वाक्यैः न्यदर्शयत॥

Then the depressed unhappy ascetic lady Sita surrounded by Rakshasa women was addressed by Ravana with sweet animated words.

श्लो॥ मां दृष्ट्वा नागनासोरु गूहमान स्तनोदरम्।
अदर्शनमिवात्मानं भयान्नेतुं त्व मिच्चसि॥2||
कामयेत्वां विशालाक्षी बहुमन्यस्व मां प्रिये।
सर्वाङ्ग गुण संपन्ने सर्वलोकमनोहरे॥3||
नेह केचिन्मनुष्या वा राक्षसाः कामरूपिणः।
व्यपसर्पतु ते सीते भयं मत्तस्समुत्थितम्॥4||్

सा॥ नागनासोरु मां दृष्ट्वा स्तनोदरं गूहमाना त्वं भयात् आत्मानं नेतुम् अदर्शनं इच्छसि इव ॥ विशालाक्षी सर्वाङ्ग गुण संपन्ने सर्वलोक मनोहरे त्वां कामये ।प्रिये मां बहुमन्यस्व॥इह मनुष्या वा राक्षसाः कामरूपिणः न । सीते ते मत्तः समुत्थितं भयं व्यपसर्पतु॥

'Oh Lady with thighs like the trunk of an elephant ! Seeing me, out of fear hiding your breasts and belly, you want to conceal yourself. Oh large eyed one, richly endowed with beauty in all limbs , delight of all worlds I desire you. Dear oblige me . Here there are no other men or Rakshasas who can change their form . Sita be free of fear you have of m'.

श्लो॥ स्वधर्मो रक्षसां भीरु सर्वथैव नसंशयः।
गमनं वा परस्त्रीणां हरणं संप्रमध्य वा॥5||
एवं चैतदकामं तु न त्वां स्प्रक्ष्यामि मैथिलि।
कामं कामः शरीरे मे यथा कामं प्रवर्तताम्॥6||
देवी नेह भयं कार्यं मयि विश्वसिहि प्रिये।
प्रणयस्व च तत्वेन मैवं भूः शोकलालसा॥7||

स॥ हे भीरु परस्त्रीणां हरणं वा संप्रमध्य वा गमनं वा रक्षसां सर्वथैव स्वधर्मः। न संशयः॥एतत् एवं कामः कामं यथाकामं मे शरीरे प्रवर्तताम् तु । अकामम् मैथिली त्वां न स्प्रक्ष्यामि ॥देवी प्रिये मयि विश्वसिहि इह भयं न कार्यं । तत्वेन च प्रणयस्व ।एवं शोकलालसा मा भूः॥

Oh Timid one kidnapping by force or approaching others wives is normal for Rakshasas. There is no doubt. The passion holds it sway on my body in this way. But I do not touch you who do not desire me. O Lady trust me. You have no fear here. Truly love me. Do not be entertaining sorrow.

श्लो॥ एकवेणीधराशय्या ध्यानं मलिन मंबरम्।
अस्थानेऽप्युपवासश्च नैता न्यौपयिकानि ते॥8||
विचित्राणि च माल्यानि चन्दनान्यगरूणि च।
विविधानि च वासांसि दिव्यान्याभरणानिच ||9||
महार्हाणि च पानानि शयनान्यासनानि च।
गीतं नृत्तं च वाद्यंच लभ मां प्राप्य मैथिलि॥10||

स॥ एकवेणी धराशय्या ध्यानं मलिनं अंबरं अस्थाने उपवासः च एतान् ते न औपयिकानि ॥मैथिलि मां प्राप्य विचित्राणि माल्यानि चन्दनानि अगरूणि च विविधानि वासांसि दिव्यान् आभरणानि च लभस्व॥महार्हाणि च पानानि शयनानि आसनानि च गीतं नृत्तं च वाद्यं च लभ॥

Oh lady ! being with a single braid , sleeping on the ground, meditation, wearing soiled clothes, fasting without reason are not appropriate for you. Mythili having secured me , you can get wonderful garlands, sandal incense several kinds of divine garments and ornaments, rich beds drinks and beds. You can enjoy singing dancing and music too.

श्लो॥ स्त्री रत्नमसि मैवं भूः कुरु गात्रेषु भूषणं।
मां प्राप्य हि कथं नु स्यात् त्वमनर्हा सुविग्रहे॥11||
इदं ते चारु संजातं यौवनं व्यतिवर्तते।
यत् अतीतं पुनर्नैति स्रोतः शीघ्रमपामिव॥12||
त्वां कृत्वोपरतो मन्ये रूपकर्ता स विश्वसृक् |
न हि रूपोपमा त्वन्या तवास्ति शुभदर्शने॥13||

स॥ स्त्री रत्नं असि । एवं माभूः । गात्रेषु भूषणं कुरु । सुविग्रहे मां प्राप्य त्वं कथं नु अनर्हा स्यात् ॥चारु संजातं इदं ते यौवनं व्यतिवर्तते । यत् अतीतं शीघ्रः स्रोतः अपां इव पुनः न इति॥ शुभदर्शने त्वां कृत्वा सः रूपकर्ता विश्वसृक् उपरतः मन्ये। त्वत् अन्या तव रूपसमः न अस्ति ॥

You are jewel among women. Do not remain like this. Decorate your limbs. Lady of beautiful body having obtained me how can you be deprived of anything. This beautiful youth of yours thus created will pass away. Like the fast flowing water it will not return again. Oh lady of auspicious looks having created you even the creator stopped. There is none who is comparable beauty to you.

श्लो॥ त्वां समसाद्य वैदेही रूपयौवनशालिनीम्।
कः पुमा नतिवर्तेत साक्षा दपि पितामहः॥14||
यद्यत् पश्यामि ते गात्रं शीतांशुसदृशानने।
तस्मिं स्तस्मिन् पृथुश्रोणी चक्षुर्मम निबध्यते॥15||

स॥वैदेही रूपयौवनशालिनीं त्वां समासाद्य कः पुमान् अतिवर्तेत ॥ साक्षात् पितामहः अपि॥ शीतांशुसदृशानने पृथुश्रोणी ते यद्यत् गात्रं पशामि तस्मिं तसमिन् मम चक्षुः निबध्यते॥

Vaidehi after getting you with your extraordinary beauty youth who can retain his mind. Even creator cannot. With face like that of a full moon and heavy hips, whenever I see your limbs which ever limb I see I am unable to extricate my eyes.

श्लो॥ भव मैथिलि भार्या मे मोह मेनं विसर्जय।
बह्विनां उत्तमस्त्रीणां आहृतानाम् इतः ततः॥16||
सर्वासामेव भद्रंते ममाग्रमहीषीभव।
लोकेभ्यो यानि रत्नानि संप्रमथ्याहृतानि वै॥17||
तानि मे भीरु सर्वाणि राज्यं चैतदहं च ते।

स॥ मैथिलि मे भार्या भव । एनं मोहं विसर्जय । आहृतानां भह्वीनाम् मम उत्तम स्त्रीणां सर्वासां एव अग्रमहिषी भव। ते भद्रम् अस्तु ॥भीरुः लोकेभ्यः यानि रत्नानि संप्रममध्य आहृतानि तानि सर्वाणि एतत् राज्यं च अहं च ते॥

Mythili be my wife. Give up this delusion. Be my chief consort among all the several wonderful women who have been brought by me and be blessed. Oh Timid lady ! All the gems and precious things I brought by force from all over the world, all the kingdom and me too are yours.

श्लो॥ विजित्य पृथिवीं सर्वां नानानगरमालिनीम्॥18||
जनकाय प्रदास्यामि तव हेतोर्विलासिनी।
नेह पश्यामि लोकेऽन्यं यो मे प्रतिबलो भवेत् ||19||
पश्यमे सुमहद्वीर्यं अप्रतिद्वन्द्वमाहवे।

स॥ पृथिवीं सर्वां नाना नगरमालिनीं विजित्य विलासिनी तव हेतोः जनकाय प्रदास्यामि ॥ इह लोके अन्यं मे प्रतिबलः न । आहवे मे सुमहत् वीर्यं अप्रतिद्वन्द्वं पश्य ॥

Oh Lovely lady! Winning the whole world and all the cities I will give them to Janaka for your sake. In this world there is none equal to me. In battle my unrivalled great strength see.

श्लो॥ असकृत् संयुगे भग्ना मया विमृदितध्वजाः॥20||
अशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः।
इच्चया क्रियता मद्य प्रतिकर्म तवोत्तमम्॥21||
सप्रभाण्यवसज्यन्तां तवाङ्गे भूषणानिच।
साधु पश्यामि ते रूपं संयुक्तं प्रतिकर्मणा॥22||

स॥मया असकृत् सुरासुराः संयुगे भग्नाः विमृदित ध्वजाः । मम प्रत्यनीकेषु स्थातुम् अशक्ताः॥ मम इच्छ आद्य तव उत्तमम् प्रतिकर्म क्रियताम्।तव अङ्गे स प्रभाणि भूषणानि च अवसज्यंतां । प्रतिकर्मणा संयुक्तं ते साधु रूपं पश्यामि ॥

Again and again Devas and Asuras, with their flags crushed, were shattered in battle unable to stand against me. My desire is that you do best decoration. You wear radiant ornaments on your body. I wish you to decorate yourself and see your pleasing form.

श्लो॥ प्रतिकर्माभि संयुक्ता दाक्षिण्येन वरानने।
भुंक्ष्वभोगान् यथाकामं पिब भीरु रमस्व च॥23||
यथेष्टं च प्रयच्च त्वं पृथिवीं वा धनानि च।
ललस्व मयि विस्रब्दा धृष्ट माज्ञापयस्व च॥24||
मत्प्रसादा ल्ललन्त्याश्च ललन्तां भान्धवा स्तव |
बुद्धिं मामनुपश्य त्वं श्रियं भद्रे यशश्च मे॥25||

स॥ वरानने भीरुः दाक्षिण्येन प्रतिकर्माभि संयुक्ता यथा कामं भोगान् भुंक्ष्व पिब रमस्व च॥ त्वं पृथिवीम् धनानि च यथेच्छं प्रयच्छ। विस्रब्दा मयि ललस्व । घृष्टं आज्ञापयस्व च॥ भद्रे मत्प्रसादात् ललन्त्याः तव बांधवा ललन्तां । त्वं मम ऋद्धिं यशश्च अनुपश्य।

O Charming lady ! Timid one ! Liberally decorate yourself as you like, drink and make merry. Give away land and wealth as you wish. Being free enjoy with me. Boldly order me. Oh Auspicious lady ! By my grace enjoying your relations you too may enjoy. You see my wealth and fame.

श्लो॥ किं करिष्यसि रामेण सुभगे चीरवाससा।
निक्षिप्त विजयो रामो गतश्रीः वनगोचरः॥26||
व्रती स्थण्डिलशायी च शङ्के जीवति वा न वा।
न हि वैदेहि राम स्त्वां द्रष्टुं वाप्युपलप्स्यते॥27||
पुरो बलाकै रसितैः मेघैः ज्योत्स्नामिवावृतम्।

स॥ सुभगे चीरवाससा रामेण किं करिष्यसि। निक्षिप्त विजयः गतश्रीः वनगोचरः व्रती स्थण्डिलशायी च रामः जीवति वा न शङ्के ॥ वैदेही रामः त्वं पुरोबलाकैः असितैः मेघैः आवृतां ज्योत्स्नां इव द्रष्टुं वा पि न हि उपलप्स्यते॥

O Beautiful lady ! What will you do with the person in bark robes. With renounced victory, lost fortune, wandering in the forest , following ascetism , sleeping on the ground whether Rama is alive or not I am doubtful. Oh Vaidehi ! Rama may not even be able to see you, like the moon rays veiled by the clouds by the flying cranes.

श्लो॥ न चापि मम हस्ता त्त्वाम् प्राप्तु मर्हति राघवः॥28||
हिरण्यकशिपुः कीर्तिं इंद्रहस्तगतामिव।
चारुस्मिते चारुदति चारुनेत्रे विलासिनि॥ 29||
मनोहरसि मे भीरु सुपर्णः पन्नगं यथा।

स॥हिरण्यकशिपुः इन्द्रहस्तगतां कीर्तिं इव राघवः मम हस्तात् त्वां प्राप्तुं न चापि अर्हति॥ चारुस्मिते चारुदति चारुनेत्रे विलासिनि भीरु सुपर्णः पन्नगं यथा मम मनः हरसि॥

Raghava will not be able to get you back from my hands like Hiranyakasipu was able to get back his wife Kirthi from the hands of Indra. Lady of charming smile, lady of beautiful teeth , beautiful eyes luxurious and timid lady you have captivated my mind like the Garuda snatching away a serpent.

श्लो॥ क्लिष्ट कौशेयवसनां तन्वी मप्यनलङ्कृताम्॥30||
तां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम्।
अन्तःपुर निवासिन्यः स्त्रियः सर्वगुणान्विताः॥31||
यावंत्यो मम सर्वासाम् ऐश्व्वर्यं कुरु जानकि।

स॥ क्लिष्टकौशेयवसनां तन्वीं त्वां अनलंकृतां अपि दृष्ट्वा अहं स्वेषु दारेषु रतिं न उपलभामि॥ जानकी मम स्त्रियः अन्तःपुरनिवासिन्यः यावन्त्यः सर्वगुणान्विताः । सर्वासां इश्वर्यं कुरु॥

Oh Tender woman wearing spoiled silk clothes, though not adorned, seeing you I am not finding love in my other wives. O Janaki Many of the ladies of my harem are endowed with all attributes . You exercise authority on all of them.

श्लो॥ मम ह्यसितकेशांते त्रैलोक्यप्रवरा स्स्त्रियः॥32||
तास्त्वां परिचरिष्यन्ति श्रिय मप्सरसो यथा।
यानि वैश्रवणे सुभ्रु रत्नानि धनानि च॥33||
तानि लोकांश्च सुश्रोणि मां च भुङ्‍क्ष्व यथा सुखम्।
न रामस्तपसा देवि न बलेन न विक्रमैः।
न धनेन मया तुल्यः तेजसा यशसाऽपि वा।34||

स॥ असितकेशांते मम ताः त्रैलोक्य प्रवराः स्त्रियः अप्सरसः श्रियं यथा त्वां परिचरिष्यन्ति॥ सुश्रोणि सुभृ वैश्रवणे यानि रत्नानि धनानि च तानि लोकांश्च मां च यथासुखं भुङ्‍क्ष्व॥ देवी रामः तपसा मया न तुल्यः । न बलेन विक्रमैः च।न धनेन तेजसा यशसा अपि वा॥

Oh lady with dark hair ! The best among the women in the three worlds, Apsaras who are mine will attend on you like Goddess Lakshmi. Oh Lady of beautiful hips, beautiful eyebrows you be happy and enjoy with whatever gems and wealth and those worlds as well including me. Oh Devi , Rama is not my equal in penance. Not in prowess or valor. Not in wealth, brilliance or fame too.

श्लो॥ पिब विहर रमस्व भुङ्‍क्ष्व भोगान्
धननिचयं प्रदिशामि मेदिनीं च।
मयि लल ललने यथासुखं त्वं
त्वयि च समेत्य ललन्तु बान्धवास्ते || 35||

स॥ललने धननिचयं मेदिनीं च त्वं प्रदिशामि ।पिब विहर रमस्व । भोगान् यथायुक्तं मयि लल। ते बान्धवाः समेत्य त्वयि ललन्तु॥

Oh delightful one, Heaps of riches as well as lands I am presenting to you. Drink, sport and enjoy. All enjoy all pleasures enjoy as you please. Enjoy along with your relations..

श्लो॥ कुसुमित तरुजाल संततानि
भ्रमरयुतानि समुद्रतीरजानि।
कनक विमल हारभूषिताङ्गि
विहर मया सह भीरु काननानि॥36||

स॥ भीरु कनक विमल हारभूषितांगी कुसुमित तरुजाल संततानि भ्रमरयुतानि समुद्रतीरजानि काननानि मया सह विहर॥

Oh Timid one ! Deck yourself with pure gold necklaces, enjoy along with me in the enchanting sea side forest groves full of trees with blossoms

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकाण्डे विंशस्सर्गः॥

Thus ends the Sarga 20 in Sundarakanda of Shrimad Valmiki Ramayan composed by Valmiki.

||om tat sat ||

 

 

 

 

 

 

 

 

 

,